Adijyoti

Adijyoti A sacred space for astrology, Reiki, chakra alignment, and crystal healing — rooted in divine consciousness and the eternal light within.

13/06/2026

|| द्वादश आदित्य  ध्यानम् ||               धाता धाता कृतस्थली हेतिर्वासुकी रथकृन्मुने ।पुलस्त्यस्तुंबुरुरिति मधुमासं नयं...
02/06/2026

|| द्वादश आदित्य ध्यानम् ||

धाता

धाता कृतस्थली हेतिर्वासुकी रथकृन्मुने ।
पुलस्त्यस्तुंबुरुरिति मधुमासं नयंत्यमी ॥
धाता शुभस्य मे दाता भूयो भूयोऽपि भूयसः ।
रश्मिजालसमाश्लिष्टः तमस्तोमविनाशनः ॥

अर्यम

अर्यमा पुलहोऽथौजाः प्रहेति पुंजिकस्थली ।
नारदः कच्छनीरश्च नयंत्येते स्म माधवम् ॥
मेरुशृंगांतरचरः कमलाकरबांधवः ।
अर्यमा तु सदा भूत्यै भूयस्यै प्रणतस्य मे ॥

मित्रः

मित्रोऽत्रिः पौरुषेयोऽथ तक्षको मेनका हहः ।
रथस्वन इति ह्येते शुक्रमासं नयंत्यमी ॥
निशानिवारणपटुः उदयाद्रिकृताश्रयः ।
मित्रोऽस्तु मम मोदाय तमस्तोमविनाशनः ॥

वरुणः

वसिष्ठो ह्यरुणो रंभा सहजन्यस्तथा हुहुः ।
शुक्रश्चित्रस्वनश्चैव शुचिमासं नयंत्यमी ॥
सूर्यस्यंदनमारूढ अर्चिर्माली प्रतापवान् ।
कालभूतः कामरूपो ह्यरुणः सेव्यते मया ॥

इंद्रः

इंद्रो विश्वावसुः श्रोता एलापत्रस्तथाऽंगिराः ।
प्रम्लोचा राक्षसोवर्यो नभोमासं नयंत्यमी ॥
सहस्ररश्मिसंवीतं इंद्रं वरदमाश्रये ।
शिरसा प्रणमाम्यद्य श्रेयो वृद्धिप्रदायकम् ॥

विवस्वान्

विवस्वानुग्रसेनश्च व्याघ्र आसारणो भृगुः ।
अनुम्लोचाः शंखपालो नभस्याख्यं नयंत्यमी ॥
जगन्निर्माणकर्तारं सर्वदिग्व्याप्ततेजसम् ।
नभोग्रहमहादीपं विवस्वंतं नमाम्यहम् ॥

त्वष्टा

त्वष्टा ऋचीकतनयः कंबलाख्यस्तिलोत्तमा ।
ब्रह्मापेतोऽथ शतजित् धृतराष्ट्र इषंभरा ॥
त्वष्टा शुभाय मे भूयात् शिष्टावलिनिषेवितः ।
नानाशिल्पकरो नानाधातुरूपः प्रभाकरः ।

विष्णुः

विष्णुरश्वतरो रंभा सूर्यवर्चाश्च सत्यजित् ।
विश्वामित्रो मखापेत ऊर्जमासं नयंत्यमी ॥
भानुमंडलमध्यस्थं वेदत्रयनिषेवितम् ।
गायत्रीप्रतिपाद्यं तं विष्णुं भक्त्या नमाम्यहम् ॥

अंशुमन्

अथांशुः कश्यपस्तार्‍क्ष्य ऋतसेनस्तथोर्वशी ।
विद्युच्छत्रुर्महाशंखः सहोमासं नयंत्यमी ॥
सदा विद्रावणरतो जगन्मंगलदीपकः ।
मुनींद्रनिवहस्तुत्यो भूतिदोऽंशुर्भवेन्मम ॥

भगः

भगः स्फूर्जोऽरिष्टनेमिः ऊर्ण आयुश्च पंचमः ।
कर्कोटकः पूर्वचित्तिः पौषमासं नयंत्यमी ॥
तिथि मास ऋतूनां च वत्सराऽयनयोरपि ।
घटिकानां च यः कर्ता भगो भाग्यप्रदोऽस्तु मे ॥

पूष

पूषा धनंजयो वातः सुषेणः सुरुचिस्तथा ।
घृताची गौतमश्चेति तपोमासं नयंत्यमी ।
पूषा तोषाय मे भूयात् सर्वपापाऽपनोदनात् ।
सहस्रकरसंवीतः समस्ताशांतरांतरः ॥

पर्जन्यः

क्रतुर्वार्चा भरद्वाजः पर्जन्यः सेनजित् तथा ।
विश्वश्चैरावतश्चैव तपस्याख्यं नयंत्यमी ॥
प्रपंचं प्रतपन् भूयो वृष्टिभिर्मादयन् पुनः ।
जगदानंदजनकः पर्जन्यः पूज्यते मया ॥

ध्यायेस्सदा सवितृमंडलमध्यवर्ती
नारायणस्सरसिजासन सन्निविष्टः।
केयूरवान् मकरकुंडलवान् किरीटी
हारी हिरण्मयवपुः धृतशंखचक्रः ॥

🙏🙏🙏🙏🙏

26/05/2026

जानिए अपने राहु को, आपका राहु positive results दे रहा या negative

Follow

आप राहु को चला रहे हैं, या राहु आपको?
25/05/2026

आप राहु को चला रहे हैं, या राहु आपको?

Address

Patna
800001

Alerts

Be the first to know and let us send you an email when Adijyoti posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share